गद्यांशं पठित्वा सरलार्थं लिखत।श्रोतृवृन्दः - नदीपूजनम् ? किमर्थ नदीपूजनम् ?कीर्तनकारः - नदी खलु जीवनदायिनी। अतः अस्मिन्नवसरे कृतज्ञतां प्रदर्शयितुं जनाः जले दीपदानं कुर्वन्ति । द्रोणे दीपं प्रज्वाल्य नदीजले समर्पयन्ति ।
गद्यांशं पठित्वा सरलार्थं लिखत।वैखानसः (राजानम् अवरुध्य) राजन्। आश्रममृगोऽयं, न हन्तव्यः। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम् । दुष्यन्तः - प्रतिसंहृत एषः सायकः । (यथोक्तं करोति)